(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.116. अध्यायः 116
Mahabharata - Drona Parva - Chapter Topics
सात्यकिना दुर्योधनकृतवर्मणोः पराजयः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-116-0x(4558)(49611)
`सात्वतस्य रणे कर्म दृष्ट्वा योद्धुं महारथाः।
अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन्'॥ 7-116-1(49612)
ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः।
त्वरमाणा महाराज युयुधानमयोधयन्॥ 7-116-2(49613)
तं द्रोणः सप्तसप्त्या जघान निशितैः शरैः।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः॥ 7-116-3(49614)
विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः।
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे॥ 7-116-4(49615)
दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष॥ 7-116-5(49616)
दुर्योधनश्च महता शरवर्षेण माधवम्।
अपीडयद्रमे राजञ्शूराश्चान्ये महारथाः॥ 7-116-6(49617)
सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः।
`स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः'॥ 7-116-7(49618)
तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः।
`सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः'॥ 7-116-8(49619)
भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः॥ 7-116-9(49620)
दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम्।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः॥ 7-116-10(49621)
`दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः'।
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः।
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम्॥ 7-116-11(49622)
राजानं सर्वलोकस्य सर्वलोकमहारथम्।
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः॥ 7-116-12(49623)
विमुञ्चतौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान्।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ॥ 7-116-13(49624)
सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा॥ 7-116-14(49625)
सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः॥ 7-116-15(49626)
माधवस्तु रमे राजन्कुरुराजस्य धन्विनः।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव॥ 7-116-16(49627)
अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत्।
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा।
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम्॥ 7-116-17(49628)
अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम्।
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह॥ 7-116-18(49629)
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना।
अमर्षवशमापन्नस्तव पुत्रमपीडयत्॥ 7-116-19(49630)
पीडितं नृपतिं दृष्ट्वा तव पुत्रं महारथाः।
सात्यकिं शरवर्षेण छादयामासुरोजसा॥ 7-116-20(49631)
स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः।
दुर्योधनं व त्वरितो विव्याधाष्टभिराशुगैः॥ 7-116-21(49632)
प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम्।
नागं मणिमयं चैव शरैर्ध्वजमपातयत्॥ 7-116-22(49633)
हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः।
सारथिं पातयामास क्षुरप्रेण महायशाः॥ 7-116-23(49634)
एतस्मिन्नन्तरे चैव कुरुराजं महारथम्।
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः॥ 7-116-24(49635)
स विध्यमानः समरे शैनेयस्य शरोत्तमैः।
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः॥ 7-116-25(49636)
हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे।
ग्रस्यमानं सात्यकिना खे मोममिव राहुणा॥ 7-116-26(49637)
तं तु शब्दमथ श्रुत्वा कृतवार्मा महारथः।
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः॥ 7-116-27(49638)
विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः।
भर्त्सयन्सारथिं चाग्रे याहियाहीति सत्वरम्॥ 7-116-28(49639)
तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम्।
युयुधानो महाराज यन्तारमिदमब्रवीत्॥ 7-116-29(49640)
कृतवर्मा रथेनैष द्रुतमापतते शरी।
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम्॥ 7-116-30(49641)
`प्रयाहि सत्वरं सूत रथेन रथसत्तमम्।
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम्'॥ 7-116-31(49642)
ततः प्रजविताश्वेन रथेन रथिनांवरः।
आससाद रणे भोजं प्रतिमानं धनुष्मताम्॥ 7-116-32(49643)
ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ।
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ॥ 7-116-33(49644)
कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत्।
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः॥ 7-116-34(49645)
चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः।
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य हि॥ 7-116-35(49646)
रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम्।
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवारयत्॥ 7-116-36(49647)
ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे।
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम्॥ 7-116-37(49648)
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः।
समकम्पतः दुर्धर्षः क्षितिकम्पे यथाऽचलः॥ 7-116-38(49649)
त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं तथा।
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः॥ 7-116-39(49650)
`हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः'।
सुवर्णपुङ्खं विशिखं समादाय च सात्यकिः।
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम्॥ 7-116-40(49651)
सोऽविध्यत्कृतवर्माणं यमदण्डोपमः शरः।
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः॥ 7-116-41(49652)
सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः।
सशरं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमात्॥ 7-116-42(49653)
स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः॥ 7-116-43(49654)
सहस्रबाहुसदृशमक्षोभ्यमिव सागरम्।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः॥ 7-116-44(49655)
`न हि तस्य शरोऽपार्थः कथञ्चिदपि पार्थिव।
दिदृक्षुः स हि वेगेन प्रायाद्यत्र धनञ्जयः॥ 7-116-45(49656)
स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः।
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम्'॥ 7-116-46(49657)
खङ्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम्।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः॥ 7-116-47(49658)
प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम्॥ 7-116-48(49659)
समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान्॥ ॥ 7-116-49(49660)

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पोडशाधिकशततमोऽध्यायः॥ 116 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-116-11 रुक्माङ्गदं चापि इति ङ.पाठः॥ 5-116-14 चन्दनो रक्तचन्दनः॥ 5-116-43 दंष्ट्राश्चतस्रो यस्य स्युर्दशनेभ्यः समुच्छ्रिताः। सिंहदंष्ट्रः स गदितश्चतुर्दंष्ट्रश्च सूरिभिः॥ 5-116-116 षोडशाधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.